Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
पञ्चमः प्रस्तावः ।
तस्य भक्त्या च शक्त्या च प्रसन्नः पृथिवीपतिः ।
किञ्चिञ्च विफलारम्भो 'होमांश्चागानिजं गृहम् ॥ ८० ॥ दध्यौ चेति मया पापमस्य दाररिरंसया । बहुपार्जितमात्मा च लोकमध्ये लघूकृतः ॥ ८१ ॥ ध्यात्वेति सुन्दरीं कन्यां दत्त्वा तस्मै स भूपतिः । राज्यं च लोकसम्मत्या तापसः समजायत ॥ ८२ ॥ साधयित्वा बहून् देशान् पुण्यवान् दृढविक्रमः । महाराजपदं प्राप्तो वीरसेननृपात्मजः ॥ ८३ ॥ अथान्येद्युः पुमानेकः प्रणम्य जगतीपतिम् । इति विज्ञपयामास लेखढौकनपूर्वकम् ॥ ८४ ॥ चितिप्रतिष्ठिताद् देव ! नगरादागतोऽस्माहम् । भवविज्ञप्तिकालेखस्तत्पौरैः प्रेषितो ह्ययम् ॥ ८५ ॥ * लेखं समर्पयामास स्वपारिग्रहिकस्य तम् । उन्मुद्रा वाचयामास सोऽप्येवं नृपतेः पुरः ॥ ८६ ॥
तद्यथा
स्वस्ति पुय्या मुज्जयिन्यां वत्सराजं महीभुजम् । चितिप्रतिष्ठितात् पौरा नत्वा विज्ञपयन्त्यदः ॥ ८७ ॥ यथा ग्रौमार्दितो मेघं शीतार्तोऽग्निं जनः स्मरेत् । पीडिता देवराजेन स्मरामस्त्वां तथा वयम् ॥ ८८ ॥
(१) दना ।
(२)
ङ ञ लेखं तमर्पयामास स्वपारिग्रहिकस्य सः ।
_३२३

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104