Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 37
________________ पञ्चमः प्रस्तावः। ३२१ एवं कृते विशेषेण विरागं त्वयि यास्यति । विना जनानुरागं हि न सम्पदपि भाविनी ॥ ७० ॥ मासं यावत् प्रतीक्षस्व ततस्त्वमपि भूपते ।। उत्तालानां न पच्यन्ते उदुम्बरफलानि यत् ॥ ७१ ॥ गते मासे कुमारस्य प्रिया आनयितुं पुनः । । आदिष्टा मन्त्रिणो राज्ञा चत्वारश्चतुरोक्तयः ॥ ७२ ॥ इतः कुमारपत्नीभ्यां देवीभूतो निजः पिता । यक्षं संप्रेष्य पातालादाहतो व्यन्तरेश्वरः ॥ ७३ ॥ तस्याभरणसन्दोहैर्भषितोऽथ पतिनिजः । तेनाग्रगामिना प्रेषि वाज्यारुढो नृपान्तिकम् ॥ ७४ । तं दृष्ट्वा भूपतिर्दध्यो व्यलोकं विहितं खलु । अमुना वीरपुरुषेणेदं किल सुभाषितम् ॥ ७५ ॥ पुनर्दिवा पुना रात्रिः पुनः सूर्यः पुनः शशी । पुनः संजायते सर्व न कोऽप्येति पुनर्मृतः ॥ ७६ ॥ पप्रच्छ चैवं किं वत्स ! क्षेमवान् वर्तते यमः ? । सोऽवदत् कुशलो देव ! कालोऽस्ति भवतः सखा ॥ ७७ ॥ ममाप्राक्षीदमावेवं बहुकालात् स्मृतोऽस्मि किम् । वत्सराज ! त्वदीशन वर्तमानोऽपि सौह दे ? ॥ ७८ ॥ तव भृत्योऽप्यहं तेन' भक्त्या गौरवितः प्रभो !। इदं मदङ्गलग्नं यत्तद्दत्तं भूषणं वरम् ॥ ७८ ॥ (१) ङ ज - नातीवगौ-।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104