Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
पञ्चमः प्रस्तावः।
३२५
जिनेन्द्रप्रतिमास्तत्र तासां चाष्टाह्निकोत्सवम् । धर्मकृत्यं तथान्यच्च गृहियोग्यं चकार सः ॥ ८ ॥ आचार्यः सोऽन्यदा तत्र पुनरेव समाययो। ववन्दे च नरेन्द्रोऽमौ गत्वा तच्चरणद्दयम् ॥ १० ॥ पप्रच्छ चान्यदा पूर्वभवे किं विहितं मया ? । यन्मेऽनुपदमायाता विपदः सम्पदोऽभवन् ॥ ११ ॥ सोऽवदत् श्रूयतां राजन् ! जम्बूद्दीपस्य भारते । शूरो नाम नृपोऽभूस्त्वं वसन्तपुरपत्तने ॥ १२ ॥ स शूरः सरलात्मा च क्षमी दाक्षिण्यसंयुतः । खभावेनैव निर्लोभो देवगुवर्चने रतः ॥ १३ ॥ दोनादिभ्यो वितीर्ण स्वः प्रजापालनतत्परः । युक्तश्चतुर्विधनीत्या न्यायवान् दोषवर्जितः ॥ १४ ॥ स एवं गुणसंयुक्तो विशेषाच्छोलशोभितः ।। अतिप्रसक्तो दाने च पालयामास मेदिनीम् ॥ १५ ॥ सकलान्तःपुरीमध्ये तस्याऽभूदग्रवल्लभा । शूरवेगाभिधानेन विद्याधरकुलोद्भवा ॥ १६ ॥ उदूढा चापरा तेन रतिचूला नृपात्मजा । तस्यामासक्त चित्तोऽन्याः परितत्याज स प्रियाः ॥ १७ ॥ अतः परं समाख्यातं सर्व देवतया तव । गन्धवाहगतिसुते यया त्वं परिणायितः ॥ १८ ॥
(१) ङ ञ द -यीम् ।

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104