Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 35
________________ पञ्चमः प्रस्तावः । ३१८ कुरुतः सर्वदाऽप्येतो सङ्गमापगमी गिरी। मौलनोन्मीलने नित्यं स्वभावेनैव लोचने ॥ ४८ ॥ प्रविश्य त्वं मिलित्वापक्रान्तयोरन्तरे तयोः । शीघ्रमेवातिदक्षत्वाद् भद्र ! पानीयमानये: ॥ ४८ ॥ तमप्यादेशमादाय वत्सराजो गतो रहे । कथयामास पत्नीनामुपायनिचयौकसाम् ॥ ५० ॥ ताभि: प्रोचेऽश्वमारुह्य गच्छ त्वं तत्र हे प्रिय ! । सखी नोऽस्ति शकुनिकारूपभृद्देवता वरा ॥ ५१ ॥ ततस्तत्र जगामाऽसौ ज्ञात्वा शकुनिकाऽपि तम् । पूरयित्वाऽम्बुनालाबु तस्य हस्ते समापयत् ॥ ५२ । स्वपुरी स समागत्य नृपस्याम्बु तदार्पयत् । देवतायाः प्रभावेण जजल्पेवं तदुच्चकैः ॥ ५३ ॥ राजंस्त्वामथवामात्यान् प्रधानं वा परं नरम् । तव दुर्बुद्धिदातारं कमहं भक्षयाम्यहो ! ॥ ५४ ॥ इति नौरवचः श्रुत्वोपविष्टो नृपपर्षदि । विसिपिये जनोऽपूर्ण कामो मम्ली च पार्थिवः ॥ ५५ ॥ कत्वा तथाऽपि वदनविकाशं सोऽब्रवीदहो ! । असाध्यं किञ्चनाऽप्यस्य विद्यते नावनीतले ॥ ५६ ॥ विसृज्येनं ग्राहे सोऽथाऽमन्वयमन्विभिः सह । अस्य व्यापादनोपायः कोऽप्यन्यः सूत्रयतामिति ॥ ५७ ॥ आलोय मन्त्रिण: प्रोचुः चत्वारः पृथिवीपतिम् । देव ! श्रीसुन्दरी कन्याविवाहव्यपदेशतः ॥ ५८ ॥

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104