Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 33
________________ पञ्चमः प्रस्तावः । युद्धायोपस्थितः सोऽथ कुमारेण महौजसा । चिप्तो दूरेण परितो भ्रमयित्वा शिरो निजम् ॥ २७ ॥ वत्सस्य वाञ्छिते मृत्यौ सिंहस्यैव बभूव सः । चिन्त्यते यत्परस्येह गृहमायाति तद् ध्रुवम् ॥ २८ ॥ सहसैव हते तस्मिंस्तत्सैन्यं हतशक्तिकम् । भूपतिशरणं प्राप को बिभेति न घातकात् ॥ २८ ॥ प्रियाभ्यां खेचरीभ्यां स वत्सः प्रोक्तो गृहागतः । अस्मद्विद्याप्रभावेन नाथ ! सिंहो हतस्त्वया ॥ ३० ॥ अनर्थोऽयं कृतो राज्ञा करिष्यत्यपरं च सः । गृहप्राप्तस्य तस्यार्य ! यत्त्वया दर्शिता वयम् ॥ ३१ ॥ मन्त्रिभिः सममालोच्य भूभुजा सोऽपरेद्यवि । व्याघ्रोदुग्धेन नः कार्यं किञ्चिदस्तीति जल्पितः ॥ ३२ ॥ अन्यच्च त्वयि सख्यौ मे नास्ति किञ्चित् सुदुर्लभम् । लहर्यः सुलभास्तस्य यस्य मित्रं महोदधिः ॥ ३३ ॥ आदाय भर्त्तुरादेशं स स्वगेहमुपागतः । अन्तश्चिन्ताभरम्लानमुखो दारैर्निरीक्षितः ॥ ३४ ॥ उक्तश्च नाथ ! सम्प्राप्ते क्षुद्रादेशे महीपतेः । किं त्वं चिन्तातुरो येन चलस्नेहा भवन्त्यमौ ॥ ३५ ॥ कथं यूयमदो वित्थेत्युदिते तेन ताः पुनः । जगदुर्यत्त्वया सार्धं चरामोऽन्तरिताः सदा ॥ ३६ ॥ दैवताश्वं समारुह्य याहि भोमाटवीं प्रिय ! | अस्मन्मातुर्देवतायाः सखी तत्राऽस्ति देवता ॥ ३७ ॥ ३१७

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104