Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 34
________________ ३१८ श्री शान्तिनाथचरित्रे तुरङ्गं सा विलोक्यैनं त्वां ज्ञास्यति ततश्च ताम् । व्याघ्रीरूपां समानीय महोभर्तुः समर्पयेः ॥ ३८ ॥ इत्यादिष्टः स्वपत्नीभिर्गत्वा तत्र क्रमेण सः । व्याघ्रीरूपां देवतां तां कर्णे धृत्वा समानयत् ॥ ३८ ॥ ऊचे च नव स्तेयं ग्टह्यतां दुह्यतां नृप ! | क्रियतां चेप्सितं स्वस्येत्युक्ता कर्णान्मुमोच ताम् ॥ ४० ॥ ततः सा व्यन्तरो व्याघ्री तदानयनधीप्रदान् । मन्त्रिणो भक्षयामास ततो भीतोऽवदनृपः ॥ ४१ ॥ हा वत्स ! वत्म ! मा कार्षीः कर्म हिंस्रं त्वमोदृशम् । गृहाणेमां जनं यावत् क्षयं नयति नाखिलम् ॥ ४२ ॥ स्वग्टहे वत्सराजोऽथ कर्णे धृत्वा निनाय ताम् । गाढाभ्यर्थनया राज्ञः सर्वपौरजनस्य च ॥ ४३ ॥ पत्नीभिरचिता तस्य स्थित्वा तत्र क्षणान्तरम् । विसृष्टा वत्सराजेन निजं स्थानमियाय सा ॥ ४४ ॥ पुनरन्येद्युरुवशस्तत्पत्नीसङ्गमस्पृहः । उपदेशादमात्यानां वत्सराजमदोऽवदत् ॥ ४५ ॥ स्थानात् कुतोऽपि भी भद्र ! जल्पन्नीरं 'समानय । येन मे जायते देहं बहुरोगविवर्जितम् ॥ ४६ ॥ इदं वास्तीति तेनोते कथितं तस्य मन्त्रिभिः । विन्ध्याटव्यां इयोरझोर्मध्यकूपेऽस्ति तज्जलम् ॥ ४७ ॥ (१) अ त्व- ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104