________________
३१८
श्री शान्तिनाथचरित्रे
तुरङ्गं सा विलोक्यैनं त्वां ज्ञास्यति ततश्च ताम् । व्याघ्रीरूपां समानीय महोभर्तुः समर्पयेः ॥ ३८ ॥ इत्यादिष्टः स्वपत्नीभिर्गत्वा तत्र क्रमेण सः । व्याघ्रीरूपां देवतां तां कर्णे धृत्वा समानयत् ॥ ३८ ॥ ऊचे च नव स्तेयं ग्टह्यतां दुह्यतां नृप ! | क्रियतां चेप्सितं स्वस्येत्युक्ता कर्णान्मुमोच ताम् ॥ ४० ॥ ततः सा व्यन्तरो व्याघ्री तदानयनधीप्रदान् । मन्त्रिणो भक्षयामास ततो भीतोऽवदनृपः ॥ ४१ ॥ हा वत्स ! वत्म ! मा कार्षीः कर्म हिंस्रं त्वमोदृशम् । गृहाणेमां जनं यावत् क्षयं नयति नाखिलम् ॥ ४२ ॥ स्वग्टहे वत्सराजोऽथ कर्णे धृत्वा निनाय ताम् । गाढाभ्यर्थनया राज्ञः सर्वपौरजनस्य च ॥ ४३ ॥ पत्नीभिरचिता तस्य स्थित्वा तत्र क्षणान्तरम् । विसृष्टा वत्सराजेन निजं स्थानमियाय सा ॥ ४४ ॥ पुनरन्येद्युरुवशस्तत्पत्नीसङ्गमस्पृहः ।
उपदेशादमात्यानां वत्सराजमदोऽवदत् ॥ ४५ ॥ स्थानात् कुतोऽपि भी भद्र ! जल्पन्नीरं 'समानय । येन मे जायते देहं बहुरोगविवर्जितम् ॥ ४६ ॥ इदं वास्तीति तेनोते कथितं तस्य मन्त्रिभिः । विन्ध्याटव्यां इयोरझोर्मध्यकूपेऽस्ति तज्जलम् ॥ ४७ ॥
(१) अ त्व- ।