________________
पञ्चमः प्रस्तावः ।
३१८
कुरुतः सर्वदाऽप्येतो सङ्गमापगमी गिरी। मौलनोन्मीलने नित्यं स्वभावेनैव लोचने ॥ ४८ ॥ प्रविश्य त्वं मिलित्वापक्रान्तयोरन्तरे तयोः । शीघ्रमेवातिदक्षत्वाद् भद्र ! पानीयमानये: ॥ ४८ ॥ तमप्यादेशमादाय वत्सराजो गतो रहे । कथयामास पत्नीनामुपायनिचयौकसाम् ॥ ५० ॥ ताभि: प्रोचेऽश्वमारुह्य गच्छ त्वं तत्र हे प्रिय ! । सखी नोऽस्ति शकुनिकारूपभृद्देवता वरा ॥ ५१ ॥ ततस्तत्र जगामाऽसौ ज्ञात्वा शकुनिकाऽपि तम् । पूरयित्वाऽम्बुनालाबु तस्य हस्ते समापयत् ॥ ५२ । स्वपुरी स समागत्य नृपस्याम्बु तदार्पयत् । देवतायाः प्रभावेण जजल्पेवं तदुच्चकैः ॥ ५३ ॥ राजंस्त्वामथवामात्यान् प्रधानं वा परं नरम् । तव दुर्बुद्धिदातारं कमहं भक्षयाम्यहो ! ॥ ५४ ॥ इति नौरवचः श्रुत्वोपविष्टो नृपपर्षदि । विसिपिये जनोऽपूर्ण कामो मम्ली च पार्थिवः ॥ ५५ ॥ कत्वा तथाऽपि वदनविकाशं सोऽब्रवीदहो ! । असाध्यं किञ्चनाऽप्यस्य विद्यते नावनीतले ॥ ५६ ॥ विसृज्येनं ग्राहे सोऽथाऽमन्वयमन्विभिः सह । अस्य व्यापादनोपायः कोऽप्यन्यः सूत्रयतामिति ॥ ५७ ॥ आलोय मन्त्रिण: प्रोचुः चत्वारः पृथिवीपतिम् । देव ! श्रीसुन्दरी कन्याविवाहव्यपदेशतः ॥ ५८ ॥