Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
पञ्चमः प्रस्तावः ।
तस्याः सपत्नी सा कृत्वा धर्मदानादिकं वरम् । मृत्वा च श्रेष्ठिन: पुत्री सञ्जाता दत्तसंजिनः ॥ ६२ ॥ पूर्वमत्सरिणी देवी सा तस्या यामिकं नरम् । हन्त्यद्याऽपि ततस्तत्र वतते पुरुषक्षयः ॥ ६३ ॥ देवतायास्तदेतस्या राजन् ! पुत्री समर्पय । तत्याखें स्थितयोर्भर्ता समेथत्यनयोः स्वयम् ॥ ६४ ॥ क्रियमाणं देवताया तं निवार्य नरक्षयम् । परिणेष्यति तां वत्सराजः श्रेष्ठिसुतामपि ॥ ६५ ॥ इति सर्व समाख्याय ययौ सोऽन्यत्र संयतः । खेचरेन्द्रेण पुत्रो मे तने हैत्य समर्पिते ॥ ६६ ॥ सोऽथ किञ्चित्तपः कृत्वा मृत्वाऽभूद् व्यन्तराधिपः । तेनाऽश्वरूपभृद्यक्षः किंकरो मे समर्पितः ॥ ६७ ॥ सर्वकामितपर्यशश्वौषधिहितयं तथा । तत्सर्वमपि ते भद्र ! प्रदत्तं तुष्टया मया ॥ ६८ ॥ परिणोते ततश्चैते वत्सराजेन कन्यके । बुभुजे च समं ताभ्यां तत्र भोगानसौ स्थितः ॥ ६८ ॥ अन्यदा रत्नचूलास्वर्ण चूले निजे प्रिये ! ज्ञापित वत्सराजेन प्रतिज्ञाकारणं निजम् ॥ ७० ॥ ताभ्यां च ज्ञापिता देवी सा च विज्ञाय कारणम् । व्यसृजत् प्रेयसीयुक्तं तहियोगाऽसहाऽपि तम् ॥ ७१ ॥ ततः पर्यङ्गमारुह्य वत्सराजः सवल्लभः । आययौ नभसा शीघ्रं श्रीदत्तावासमन्दिरम् ॥ १२ ॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104