Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 24
________________ श्रीशान्तिनाथचरित्रे साऽवदत् पूरियं भद्र ! कता व्यन्तरजातिभिः । देवताभिः क्रोडनार्थ नान्यः कोऽप्यत्र भूपतिः ॥ ३३ ॥ वत्सराजः पुन: प्रोचे तो तत्प्रचुरं जलम् । किमर्थमुह्यते भद्रे ! ततश्चैवं शशंस सा ॥ ३४ ॥ याऽस्माकं स्वामिनी देवी स्थान क्वापि गता सती। पुंसा के नाऽपि सा बाहो प्रहृता पीडिता ततः ॥ ३५ ॥ एतत्पीडानिरासार्थ जलसे को विधीयते । तेनेदमुह्यते नीरं सा व द्याऽपि न शाम्यति ॥ ३६ ॥ अङ्गपोडापहार किं नेश्वरी देवताप्य हो !। पृष्टेति वत्सराजेन पुनरेवं जगाद सा ॥ ३७॥ प्रहारदायक स्याङ्गरक्षिका देवताधिका। तत्प्रभावेण नैतस्या वेदनोपशमो भवेत् ॥ ३८ ॥ औषधौहितयं चास्या: करेऽभूत् सप्रभावकम् । दत्तमत्यन्ततुष्टेन व्यन्तरेन्द्रेण यत्किल ॥ ३८ ॥ धूमेन मोहयत्येकाऽपरा घातातिनाशिनी । ते पुनः पतिते तत्र यत्र खड्नेन ताडिता ॥ ४० ॥ वत्सराजस्ततोऽवादीन्मानुषो भिषगस्माहम् । मह्यं ददातु सा किं नु वेदनां शमयामि चेत् ? ॥ ४१ ॥ सा स्माह लभसे तत् त्वं ध्रुवं यद्भद्र ! याचसे । तिष्ठ तावत् परं यावत् स्वामिन्याः कथयाम्यदः ॥ ४२ ॥ ततो गत्वा तयाऽऽचख्ये तत्तस्यै सापि तत्क्षणात् । 'तं तयाऽऽनाययामास सापि तस्मै शशंस च ॥ ४३ ॥

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104