Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 23
________________ पञ्चमः प्रस्तावः । तस्मिन्नेव दिने श्रेष्ठी पाणिग्रहणमेतयोः । अकारयन्निशामेकामुषितोऽसौ तया सह ॥ २२ ॥ हितीयेऽहनि गत्यर्थमापृष्टा तेन माऽवदत् । हे कान्त ! किं न जानासि स्वरूपं रागिणामदः ॥ २३ ॥ विरहो वसन्तमासो नवस्नेहो नवं वयः । पञ्चमस्य ध्वनिश्चेति सह्या: पञ्चाग्नयः कथम् ? ॥ २४ ॥ वत्सोऽवादीत् कुरङ्गाक्षि ! यामि देशान्तरं न चेत् । तन्मे वह्निप्रवेश: स्यादित्यर्थे नास्ति संशयः ॥ २५ ॥ माऽवोचद्दे णिदण्डोऽयं त्वत्परो विहितो मया। स्थास्याम्यत्र शरीरेण हृदष्यामि त्वया सह ॥ २६ ॥ कुश्मं कज्जलं चैव कुसुमाभरणानि च । लगिष्यन्ति शरीरे मे त्वयि कान्त ! समागते ॥ २७॥ इत्थं कृतप्रतिज्ञां तां मुक्त्वा सोऽश्रुमुखौं प्रियाम् । श्रेष्ठिनं समनुज्ञाप्य वत्सराजोऽग्रतोऽचलत् ॥ २८ ॥ ददर्शाऽग्रेऽटवीमध्ये पल्लौं भिल्लसमाकुलाम् । बहंश्च पर्वतांस्तुङ्गान् रम्याथ गिरिनिम्नगाः ॥ २८ ॥ असाववंविधाऽटव्यां स्थाने चैकत्र सुन्दरे । पश्यति स्म पुरीमकामभंलिहग्रहाञ्चिताम् ॥ ३० ॥ बहिः सरोवरे तस्याः प्रक्षाल्य चरणानने । छत्वा पर्यस्तिका सेतावुपविष्टस्तरोस्तले ॥ ३१ ॥ नारीसार्थेन पानीयमुहमानं ददर्श सः। पप्रच्छ चैकां तन्मध्यात् केयं पू: कोऽत्र भूपतिः ? ॥ ३२ ॥

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104