Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 22
________________ श्रीशान्तिनाथचरित्रे विचिन्त्यैवमभाषिष्ट सा पिको मधुरस्वरा। कथं त्वं व्यसनानाथ ! मुक्तोऽसीति निवेदय ? ॥ ११ ॥ तेनापि कथितं तस्यै रात्रिवृतं यथातथम् । तच्छ्रुत्वा जातरोमाञ्चकञ्चका सा मुदं दधौ ॥ १२ ॥ इति संलापपरयोस्तयोर्दासी समागता । तस्या मुखक्षालनाथं जलमादाय निर्मलम् ॥ १३ ॥ कुमारमक्षताङ्गं सा दृष्ट्वा हर्षेण पूरिता । श्रेष्ठिनं वर्धयामास तत्क्षेमकथया द्रुतम् ॥ १४ ॥ खलहतिप्रचारोऽथ दत्तः श्रेष्ठी ससम्भमः । तयोः समीपमायातो हर्षानः पूरितेक्षण: ॥ १५ ॥ श्रीदत्ताऽपि समुत्थाय ददौ तस्मै शुभासनम् । मोऽपि तत्र समासीनः कुमारं समभाषत ॥ १६ ॥ कथं वीर ! त्वया रात्री निस्तीर्णो व्यसनार्णवः । कुमारणाऽपि सर्वोऽपि वृत्तान्तोऽस्य निवेदितः ॥ १७ ॥ स जवे ते मया दत्ता पुत्रीयं प्राणवल्लभा । कल्प इत्य न्यथा लञ्चा स्वयमेव त्वया गुणैः ॥ १८ ॥ कुमारोऽवोचदज्ञातकुलस्य मम कन्यकाम् । कथं ददासि, श्रेष्ठाचे ज्ञातं तव गुणै: कुलम् ॥ १८ ॥ पुनरुक्तं कुमारण कारण न गरीयसा । गन्तव्यमस्ति मे दूरं करिष्ये वलितस्त्विदम् ॥ २० ॥ इमां परिमयेदानों पश्चाहच्छेर्यथारुचि । इत्युक्ते श्रेष्ठिना भूयोऽङ्गीकृतं तेन तहचः ॥ २१ ॥

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104