________________
श्रीशान्तिनाथचरित्रे
विचिन्त्यैवमभाषिष्ट सा पिको मधुरस्वरा। कथं त्वं व्यसनानाथ ! मुक्तोऽसीति निवेदय ? ॥ ११ ॥ तेनापि कथितं तस्यै रात्रिवृतं यथातथम् । तच्छ्रुत्वा जातरोमाञ्चकञ्चका सा मुदं दधौ ॥ १२ ॥ इति संलापपरयोस्तयोर्दासी समागता । तस्या मुखक्षालनाथं जलमादाय निर्मलम् ॥ १३ ॥ कुमारमक्षताङ्गं सा दृष्ट्वा हर्षेण पूरिता । श्रेष्ठिनं वर्धयामास तत्क्षेमकथया द्रुतम् ॥ १४ ॥ खलहतिप्रचारोऽथ दत्तः श्रेष्ठी ससम्भमः । तयोः समीपमायातो हर्षानः पूरितेक्षण: ॥ १५ ॥ श्रीदत्ताऽपि समुत्थाय ददौ तस्मै शुभासनम् । मोऽपि तत्र समासीनः कुमारं समभाषत ॥ १६ ॥ कथं वीर ! त्वया रात्री निस्तीर्णो व्यसनार्णवः । कुमारणाऽपि सर्वोऽपि वृत्तान्तोऽस्य निवेदितः ॥ १७ ॥ स जवे ते मया दत्ता पुत्रीयं प्राणवल्लभा । कल्प इत्य न्यथा लञ्चा स्वयमेव त्वया गुणैः ॥ १८ ॥ कुमारोऽवोचदज्ञातकुलस्य मम कन्यकाम् । कथं ददासि, श्रेष्ठाचे ज्ञातं तव गुणै: कुलम् ॥ १८ ॥ पुनरुक्तं कुमारण कारण न गरीयसा । गन्तव्यमस्ति मे दूरं करिष्ये वलितस्त्विदम् ॥ २० ॥ इमां परिमयेदानों पश्चाहच्छेर्यथारुचि । इत्युक्ते श्रेष्ठिना भूयोऽङ्गीकृतं तेन तहचः ॥ २१ ॥