________________
श्रीशान्तिनाथचरित्रे
साऽवदत् पूरियं भद्र ! कता व्यन्तरजातिभिः । देवताभिः क्रोडनार्थ नान्यः कोऽप्यत्र भूपतिः ॥ ३३ ॥ वत्सराजः पुन: प्रोचे तो तत्प्रचुरं जलम् । किमर्थमुह्यते भद्रे ! ततश्चैवं शशंस सा ॥ ३४ ॥ याऽस्माकं स्वामिनी देवी स्थान क्वापि गता सती। पुंसा के नाऽपि सा बाहो प्रहृता पीडिता ततः ॥ ३५ ॥ एतत्पीडानिरासार्थ जलसे को विधीयते । तेनेदमुह्यते नीरं सा व द्याऽपि न शाम्यति ॥ ३६ ॥ अङ्गपोडापहार किं नेश्वरी देवताप्य हो !। पृष्टेति वत्सराजेन पुनरेवं जगाद सा ॥ ३७॥ प्रहारदायक स्याङ्गरक्षिका देवताधिका। तत्प्रभावेण नैतस्या वेदनोपशमो भवेत् ॥ ३८ ॥
औषधौहितयं चास्या: करेऽभूत् सप्रभावकम् । दत्तमत्यन्ततुष्टेन व्यन्तरेन्द्रेण यत्किल ॥ ३८ ॥ धूमेन मोहयत्येकाऽपरा घातातिनाशिनी । ते पुनः पतिते तत्र यत्र खड्नेन ताडिता ॥ ४० ॥ वत्सराजस्ततोऽवादीन्मानुषो भिषगस्माहम् । मह्यं ददातु सा किं नु वेदनां शमयामि चेत् ? ॥ ४१ ॥ सा स्माह लभसे तत् त्वं ध्रुवं यद्भद्र ! याचसे । तिष्ठ तावत् परं यावत् स्वामिन्याः कथयाम्यदः ॥ ४२ ॥ ततो गत्वा तयाऽऽचख्ये तत्तस्यै सापि तत्क्षणात् । 'तं तयाऽऽनाययामास सापि तस्मै शशंस च ॥ ४३ ॥