________________
पञ्चमः प्रस्तावः ।
३०८
प्रसन्नास्या यदा भद्र ! स्वामिनी मार्गयेस्तदा । प्रासादस्योपरितनभूमिस्थं कन्यकायुगम् ॥ ४४ ॥ अश्वरूपं तथा यक्ष पर्यवं कामितप्रदम् । एवं करिष्यामौत्युक्त्वा स ययौ देवतान्तिकम् ॥ ४५ ॥ दत्तासनोपविष्टोऽसौ तया प्रोक्तः सगौरवम् । जानासि वैद्यकं चेत्त्वं भद्र ! पीडा निवारय ॥ ४६ ॥ विधाय वत्सराजोऽथ 'वाचा वैद्यकविस्तरम् । धूमौषध्या महाधूम महरच्चान्यया व्यथाम् ॥ ४७ ॥ वेदनाऽपहृता यावगुजा जाता पुनर्नवा। तावत् प्रोचे तया भद्र ! घातदाता त्वमेव मे ॥ ४८ ॥ आमेति भणिते तेन साऽवादीत्तोषनिर्भरा। याचस्व खेच्छया भद्र ! तुष्टाहं साहसेन ते ॥ ४८ ॥ . ततश्च याचितं तेन तत्कन्या युगलं वरम्।। यक्षस्तुरङ्गरूपस्तु पर्यशः कामितप्रदः ॥ ५० ॥ सञ्जातो गृहभेदोऽयमिति ध्यात्वा जजल्प सा। दत्तमेतत् परं त्वस्य शृणत्पत्तिं त्वमादितः ॥ ५१ ॥ आसोच्चमरचच्चायां पुयां वैताढ्यपर्वते । गन्धवाहगतिर्नाम्ना विद्याधरनरेश्वरः ॥ ५२ ॥
(१) खज तामुवाचानयागाय सा नयन्ती जगाद तम् ।
ददाति यदि ते तुष्टा खामिनी मार्गयेस्तदा ॥ ४३ ॥ (२) ज पराकुरु। ङ ञ द हराशु तत् । (३) खज सात्त्विकै कशिरोमणिः ।