________________
श्रीशान्तिनाथचरित्रे
सुवेगामद नवेगे तस्याऽभूतामुभे प्रिये । रत्नचूलास्वर्णचूले तयोश्च क्रमजे सुते ॥ ५३ ॥ विवाहचिन्तया पुत्रगोराकुलस्यान्यदा रहे। 'खेचरेन्द्रस्य तस्याऽगादेको विद्याधरो मुनिः ॥ ५४ ॥
आसयित्वाऽऽसने रम्ये नमस्कृत्य च भक्तितः । पृष्ट स्तेन मुनिः पुत्रयोर्भर्त्ता कोऽत्र भविष्यति ? ॥ ५५ ॥ प्राचख्यौ ज्ञानवानेष वत्सराजो नृपात्मजः । भविष्यत्यनयोर्भर्त्ता गुणवान् भूमिगोचरः ॥ ५६ ॥ न तु व सन्निधौ भावि पाणिग्रहणमेतयोः । मासशेषं महाराज ! तवायुर्वर्तते यतः ॥ ५७ ॥ तर्हि किं कार्यमित्युक्ते भूभुजा सोऽवदत् पुनः । शृणु राजन् ! कुमारोऽसौ भावी भर्ता यथाऽनयोः ॥ ५८ ॥
आसीत्त्वद्भगिनी पूर्व भूमिगोचरभूपतेः । पित्रा शूराऽभिधानस्य या दत्ता सख्युरात्मनः ॥ ५८ ॥ तस्या चाभूच्छुभाकाराऽपरा कान्ता नृपात्मजा। तस्यां प्रेमप्रकर्षोऽस्याऽनिष्टा सा भगिनी तव ॥ ६० ॥ सा विहेषं गता तस्यां कत्वा बालतपो मृता। समुत्पन्नास्ति हे राजन् ! व्यन्तरी देवता वरा ॥ ६१ ॥
(१) ख ज राजा तस्य समायातः कचिजनानी महामुनिः । (२) ञ द तस्या जन्मान्तरस्नेहसम्बवाऽन्याऽपि गेहिनी ।
अभूत्तदनुरक्तस्याऽनिष्टा सा भगिनी तव ॥ ६॥ (३) ज कानिन् ।