Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 16
________________ श्रीशान्तिनाथचरित्रे ततो वृत्तान्तमाख्यायानीय तं वरकञ्चकम् । वत्सराजकुमारोऽसावपयामास भूपतेः ॥ ४८ ॥ राजा समर्पयामास तं देव्या: साऽपि साञ्जसम् । सद्यः परिदधाति स्म प्रहृष्टवदनाम्बुजा ॥ ४८ ॥ तयोरननुरूपं चोत्तरीयं प्रेक्ष्य सा पुनः । कुरुते स्माऽधति लोभी लाभे सति विवर्धते ॥ ५० ॥ राजा प्रोवाच हे देवि ! कञ्चकऽपि समर्पिते। किं त्वं श्याममुखी साऽथ स्वाऽभिप्रायं शशंस तम् ॥ ५१ ॥ तच्छ्रुत्वा भूपतिर्दध्यावसन्तुष्टा अहो ! स्त्रियः । प्यन्ति न कदाप्येता वस्त्रालङ्करणादिषु ॥ ५२ ॥ ऊचे च लोभं हे देवि ! मा विधेहि निरर्थकम् । वस्तुनोऽविद्यमानस्य कृते त्वमविवेकि नि ! ॥ ५३ ॥ प्रच्छादनं यदा लप्मे शाटिकाचोलयोः समम् । तदा भोक्ष्येऽहमित्युक्वा साऽविशत् कोपमन्दिरे ॥ ५४ ॥ ततो राजा वत्सराजः प्रोक्तः साहसिक ! त्वया । दिव्यवस्त्रे समानीयाऽनर्थोऽयं विहितः खलु ॥ ५५ ॥ इमां माटष्वसारं स्त्रां कथञ्चिदपि तोषय। त्वां विना नापरः कश्चिदस्य व्याधेश्चिकित्सकः ॥ ५६ ॥ प्रोताऽपि तेन साऽमुञ्चत् स्त्रीस्वभावेन नाग्रहम् । ततो राज्ञः पुरश्चके प्रतिज्ञेयं सुदुस्तरा ॥ ५७ ॥ देव्या समोहितं वस्त्रं षण्मासाऽभ्यन्तरे यदि।। नानयामि ततो वह्नौ प्रविशामि न संशयः ॥ ५८ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104