________________
श्रीशान्तिनाथचरित्रे
ततो वृत्तान्तमाख्यायानीय तं वरकञ्चकम् । वत्सराजकुमारोऽसावपयामास भूपतेः ॥ ४८ ॥ राजा समर्पयामास तं देव्या: साऽपि साञ्जसम् । सद्यः परिदधाति स्म प्रहृष्टवदनाम्बुजा ॥ ४८ ॥ तयोरननुरूपं चोत्तरीयं प्रेक्ष्य सा पुनः । कुरुते स्माऽधति लोभी लाभे सति विवर्धते ॥ ५० ॥ राजा प्रोवाच हे देवि ! कञ्चकऽपि समर्पिते। किं त्वं श्याममुखी साऽथ स्वाऽभिप्रायं शशंस तम् ॥ ५१ ॥ तच्छ्रुत्वा भूपतिर्दध्यावसन्तुष्टा अहो ! स्त्रियः । प्यन्ति न कदाप्येता वस्त्रालङ्करणादिषु ॥ ५२ ॥ ऊचे च लोभं हे देवि ! मा विधेहि निरर्थकम् । वस्तुनोऽविद्यमानस्य कृते त्वमविवेकि नि ! ॥ ५३ ॥ प्रच्छादनं यदा लप्मे शाटिकाचोलयोः समम् । तदा भोक्ष्येऽहमित्युक्वा साऽविशत् कोपमन्दिरे ॥ ५४ ॥ ततो राजा वत्सराजः प्रोक्तः साहसिक ! त्वया । दिव्यवस्त्रे समानीयाऽनर्थोऽयं विहितः खलु ॥ ५५ ॥ इमां माटष्वसारं स्त्रां कथञ्चिदपि तोषय। त्वां विना नापरः कश्चिदस्य व्याधेश्चिकित्सकः ॥ ५६ ॥ प्रोताऽपि तेन साऽमुञ्चत् स्त्रीस्वभावेन नाग्रहम् । ततो राज्ञः पुरश्चके प्रतिज्ञेयं सुदुस्तरा ॥ ५७ ॥ देव्या समोहितं वस्त्रं षण्मासाऽभ्यन्तरे यदि।। नानयामि ततो वह्नौ प्रविशामि न संशयः ॥ ५८ ॥