________________
पञ्चमः प्रस्तावः।
३०१
प्रोचेऽथ भूपतिर्भद्र ! प्रतिज्ञां मेटशी विधाः । सम्यक् कृतान्तपाशानां पाती न ज्ञायते यतः ॥ ५८ ॥ सोऽवदत् त्वत्प्रसादेन सर्व साधु भविष्यति । किन्तु मां विसृज क्षिप्रं यामि देशान्तरं यतः ॥ ६ ॥ खहस्तगतताम्बूलं दत्त्वाऽसौ तेन साञ्जसम् । ।। विसृष्टः स्वग्रहे गत्वा जनन्योस्तं न्यवेदयत् ॥ ६१ ॥ अनिच्छन्त्यपि तच्चित्ते पुत्रापायाऽभिशशिनी । भूयात् ते विजयो वत्से त्यूचे सा बुद्धिशालिनी ॥ ६२ ॥ किञ्चित्पाथेयमादायोपानद्गूढपदहयः ।। खग खटकसंयुक्तो नगर्या निययावसौ ॥ ६३ ॥ दक्षिणां दिशमाश्रित्य बहुग्रामपुराकुलाम् । पश्यन् वसुमतोमेकामास सादाटवीमसौ ॥ ६४ ॥ तुङ्गप्राकारमद्राक्षीत् तत्रैकं लघुपत्तनम् । विलोक्य विजनं तच्च वत्सराजो व्यचिन्तयत् ॥ ६५ ॥ किमिदं हन्त ! भूतानां पुरं वा यक्षरक्षसाम् । अनया चिन्तया किं वा प्रविश्यालोकयाम्यहम् ॥ ६६ ॥ प्रविशंश्च ददर्शासौ तन्मध्ये तुङ्गमन्दिरम् । तत्यावें लघुगेहानि ततस्तत्र विवेश सः ॥ ६७ ॥ दृष्ट्वासनोपविष्टं च तत्रैकं पुरुषं वरम् । परिवारनरं तस्य वत्सः पप्रच्छ कञ्चन ॥ ६८ ॥ किंनामदं पुरं भद्र ! किनामाऽयं महीपतिः । सोऽवादीद नगरं नैतद् न चायं पृथिवीपतिः ॥ ६८ ॥