________________
३०२
श्रीशान्तिनाथचरित्रे
किन्वितो नातिदूरेऽस्ति पुरं भूतिलकाभिधम् । वैरिसिंहो नृपस्तत्र श्रेष्ठी दत्ताभिधस्तथा ॥ ७० ॥ श्रीदेवीनामधेयाया भार्यायाः कुक्षिसम्भवा।। रूपलावण्य संयुक्ता श्रीदत्ता तस्य नन्दिनी ॥ ७१ ॥ साऽभवद् यौवनप्राप्ता दोषग्रस्त शरीरका। तस्याः प्राहरिको रात्री यो भवेद म्रियते हि सः ॥ ७२ ॥ यदि प्राहरिको नास्या भवेत् तत्सप्त पूरुषाः ।' विपद्यन्ते, ततो राज्ञा स श्रेष्ठेयवं प्रजल्पितः ॥ ७३ ॥ श्रेष्ठिन् ! त्वं नगरं मुक्त्वा गच्छाटव्यां ममाज्ञया । त्वत्सुतादोषजनितः किल लोकक्षयोऽस्तु मा || ७४ ॥ सोऽयं श्रेष्ठी समेतोऽत्र स्वपरीवारसंयुतः । चक्रे च चौररक्षार्थ सप्राकारमिदं यहम् ॥ ७५ ॥ अनेन गोलकाबद्धाः कृता यामिकपूरुषाः । प्रभूतधनलोभन ते च सन्त्यस्य सन्निधौ ॥ ७६ ॥ तेषां मध्यादथै कैको म्रियते च दिने दिने । तान् मुक्त्वा नापरः कश्चिदिह स्थाने वसत्यहो ! ॥ ७७ ॥ ततस्त्वमपि हे पान्य ! याह्यन्यत्र बिभेषि चेत् । इति श्रुत्वा कुमारोऽपि ययौ दत्तस्य सन्निधौ ॥ ७८ ॥ दत्तोऽप्यासनमेतस्मै ससम्मममदापयत् । ततस्तत्रोपविष्टाय ताम्बूलं प्रददी स्वयम् ॥ ७ ॥ पृच्छति स्मादरेणैवं वत्स ! त्वं कुत आगतः ? । सोऽयावादीदुज्जयिन्या: कारणेनाऽहमागतः ॥ ८० ॥