________________
पञ्चमः प्रस्तावः ।
RY
एवं यावज्जजल्पाऽसौ कुमार: श्रेष्ठिना सह। तत्रैकस्तावदायात: पुमान् शृङ्गारशोभितः ॥ ८१ ॥ विमनस्कममुं दृष्ट्वा कुमारः श्रेष्ठिनं प्रति । जगाद किमयं तात ! विच्छायो दृश्यते पुमान् ? ॥ ८२ ॥ ततो दोघं विनिःश्वस्य श्रेष्ठाचे तव सुन्दर ! । अत्यन्तगोपनीयोऽपि वृत्तान्तोऽयं 'निवेद्यते ॥ ८३ ॥ अस्ति मे तनया तस्या रात्रौ यो यामिको भवेत् । अतिप्रचण्ड दोषण सोऽवश्यं वत्स ! हन्यते ॥ ८४ ॥ बभूव पुरुषस्याऽस्य यामिकत्वेऽद्य वारकः । तेनाऽयं विमना मृत्योः कस्य वा न भयं भवेत् ? ॥ ८५ ॥ वत्सराजस्ततोऽवादीत् तिष्ठत्वेष यथासुखम् । अहमद्य भविष्यामि तस्याः प्राहरिको निशि ॥ ८६ ॥ श्रेष्ठी जगाद वत्स ! त्वमद्य प्राघुणको मम । भुक्तं च न त्वया किञ्चित् किमङ्गीकुरुषे मृतिम् ? ॥ ८७॥ वत्सराजोऽवदत् तात ! कार्यमेतन्मया 'ध्रुवम् । परोपकाररसिकैर्य दिदं पठ्यते बुधैः ॥ ८८ ॥ कतोपकार: सर्वोऽपि करोत्युपततिं जनः । विनोपकारं यस्त्राता विपदः, सोऽत्र सज्जनः ॥ ८८ ॥ आवासस्योपरितनभूमौ सोऽथ कुमारकः । आरोहति स्म यत्नासीत् श्रीदत्तवेष्ठिनः सुता ॥ १० ॥
(१) ज निगद्यते।
(३)
(२) ख ङ ज द मृत्यौ। ज -हतम्।