________________
३०४
श्रीशान्तिनाथचरित्रे
साऽपि दध्यौ विलोक्यैनमहो ! रूपमहो ! प्रभा । शरीरं पुरुषस्याऽस्य किं तद्यन्न मनोहरम् ॥ ८१ ॥ हा देव ! निर्मिताऽहं तु नारो मारोव किं त्वया । ईदृग्मनुष्यरत्नानां जीवितान्तविधायिनी ॥ ८२ ॥ तदासन्न्रस्थशय्यायामासोनोऽथ महामतिः ।
आललाप कुमारस्तां मधुरालापपण्डितः ॥ ८३ ॥ तथा कथञ्चित्तेनेयं रञ्जिताऽचिन्तयद्यथा । श्रात्मानमपि हत्वाऽहं रक्षाम्येतस्य जीवितम् ॥ ८४ ॥ एवं विचिन्तयन्ती सा तत्क्षणायातनिद्रया । . जीवितार्थमिवैतस्य बभूव गतचेतना ॥ ८५ ॥ कुमारोऽथ गवाक्षेणोत्तीर्याऽधो भूमिकागतम् । काष्ठमेकमुपादाय तेनैवाऽऽरोहति स्म सः ॥ ८६॥ काष्ठं निवेश्य शय्यायां विकोशतरवारियुक् । तस्थौ दीपस्य च्छायायामीक्षमाणो दिशोऽखिलाः ॥ ८७ ॥ 'वातायनविवरेणाऽवान्तरे मुख मेक कम् । प्रविशन्तमसौ दृष्ट्वाऽप्रमत्तोऽभूद्दिशेषतः ॥ ८८ ॥ मुखेन तेन तस्मिंस्तु वासगेहे निरीक्षिते ।
प्रविवेश ततो हस्तः समुद्रालङ्गताङ्गुलिः ॥ ८८ ॥ औषधीवलयाभ्यां स मण्डितश्च तदेकतः ।
निर्ययौ फूत्कृतो धूमस्तेन व्याप्तं च तद् गृहम् ॥ ६०० ॥
(१) खघ ज ड कुमारोऽथ गवाक्षेणा ।