Book Title: Shantinath Charita Part 04
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 15
________________ पञ्चमः प्रस्तावः । २८८ खङ्गमावष्य रे रण्डे ! प्रचण्डे ! कि करोष्यदः ? । इत्युक्ता वत्सराजेन मोत्यपात नभस्तले ॥ ३७॥ सोत्पतन्ती परिधानचीवरे जग्गृहेऽमुना । तहिमुच्य करे तस्य क्षणात् काऽपि ययावसौ ॥ ३८ ॥ अत्रान्तरे घनरथं जिनं पप्रच्छ कश्चन । भगवन् ! कामिनी काऽसौ चक्रे कर्म किमीदृशम् ? ॥३८॥ भगवानप्यथोवाच सा पापा दुष्टदेवता। करोत्ये वंविधं कम छलनाथं नृणामहो ! ॥ ४० ॥ भूयः पृष्टोऽमुना स्वामी किं नु खादन्ति देवताः । मांस, नेति जगादासी क्रीडा तासामियं पुन: ॥ ४१ ॥ वत्सराजोऽथ तहस्त्रमादाय स्वगृहं गतः । तावच्छयितवान् यावदुदियाय दिवाकरः ॥ ४२ ॥ ततस्तहस्त्रमादाय राज्ञः पार्वे ययावसौ। प्रणिपातं विधायाऽस्य निषसाद यथास्थिति ॥ ४३ ॥ पृष्टोऽथ रात्रिवृत्तान्तः प्रस्तावे जगतीभुजा । तेनाऽप्यस्य स नि:शेषो यथा वृत्तो निवेदितः ॥ ४४ । तद्देवतानिवसनमर्पितं च महीपतेः । वररत्नमण्डितं तु तदृष्ट्वा स विसिमिये ॥ ४५ ॥ राज्ञयाः पार्वे निविष्टाया राज्ञा तहस्त्रमर्पितम् । तस्मिन् परिहिते तस्याः शोभते स्म न कञ्चुकः ॥ ४६ ॥ तत: सोचेऽमुना तुल्यो न कूर्पास: सुवाससा । यदि स्यादेष संयोमस्तदा प्राणेश ! सुन्दरम् ॥ ४७ ॥

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104