________________
पञ्चमः प्रस्तावः ।
आभाषितास्ततस्तेन सर्वे प्राहरिका नराः ।
ते तु प्रमाददोषेण सुप्ता नो ददिरे वचः ॥ १६ ॥ वत्सराजोऽवदत् स्वामिन् ! कार्यमादिश्यतां मम । 'राजोचे किं मया नाद्य विसृष्टोऽसि महाशय ! ॥ १७ ॥ आमेति भणिते तेन सोऽब्रवीदधुनाऽपि हि । विसृष्टोऽसि गृहं याहि प्रेष्यत्वं तव नोचितम् ॥ १८ ॥ सोऽवदत् त्वत्समादेशं कुर्वतः का मम त्रपा ? | अवश्यं तं करिष्यामि कार्यमादिश्यतां प्रभो ! ॥ १८ ॥ राजीचे तर्हि गत्वा त्वं पृष्ट्वा दुःखस्य कारणम् । 'वत्सेनां कामिनीं दोनां रुदतों प्रतिषेधय ॥ २० ॥ सोऽथ शब्दानुसारेण कृत्वा प्राकारलङ्घनम् । मध्यभागे श्मशानस्य ययौ सत्त्वसमन्वितः ॥ २१ ॥ तत्रैकदेशे सहस्त्रालङ्कारपरिशोभिताम् । विलोक्य ललनामेकां रुदतीमित्यभाषत ॥ २२ ॥ का त्वं मुग्धे ! कथं चात्र श्मशाने हन्त ! रोदिषि ? | न चेहोप्यं तदाख्याहि निजं दुःखस्य कारणम् ॥ २३ ॥ साऽवोचच्च लितोऽसि त्वं यत्र तत्र प्रयाहि भोः ! । असमर्थतनोस्ते किमनया मम चिन्तया ? ॥ २४ ॥
वत्सोऽवादीद्दुःखिनीं त्वां दृष्ट्वा नो गन्तुमुत्सहे । भवन्ति साधवो यस्मात् परदुःखेन दुःखिताः ॥ २५ ॥
(१) ङ राज्ञोचे ।
(२) ङ च वत्सेमां ।
३८
२८७
(३) ख ङ ज क्याथाबला । द-क्य त्रिवलया ।