________________
२८८
श्रीशान्तिनाथचरित्रे
साऽऽख्यदेवं विधाः सन्तो यदि तद्भवतोऽत्र किम् ? । तदा तैलस्य किं मूढ ! चेत् सुगन्धं भवेद् वृतम् ? ॥ २६ ॥ जजल्प वत्सराजस्तु कथं कुपुरुषस्त्वया । ज्ञातोऽहं, साऽवदयेन दृश्यसे बालकाकतिः ॥ २७ ॥ स पुनः स्माह किं सूरो हन्ति बालोऽपि नो तमः ? । तुङ्गमातङ्गपूगं वा किं न हन्याटु हरिः शिशु: ? ॥ २८ ॥ किं वा चिन्तामणि: स्वल्पः कुर्यान सकलेप्सितम् । एवं मय्यपि बालोऽयमित्वनास्था विधेहि मा ॥ २८ ॥ स्मित्वाऽभाषिष्ट साऽप्येवं तर्हि भोः ! शृणु कारणम् । अत्रैव पुरि वास्तव्योत्तमसो रहिण्यहम् ॥ ३०॥ विनाऽपराधमेतेन भूभुजा स तु मे पतिः । शूलिकायामिहाऽऽरोपि वर्तमानोऽपि यौवने ॥ ३१ ॥ सर्वदा भोजनविधाविष्टा एते यतोऽभवन् । अहं प्रक्षेनुमिच्छामि वृतपूरान् मुखेऽस्य तत् ॥ ३२ ॥ एतत् कर्तमशताऽहमयमुच्चतरो यतः । तेन रोदिमि भर्तारं स्मत्वा भर्तारमात्मनः ॥ ३३ ॥ भणिता वत्सराजन सुभु ! स्कन्धेऽधिरुह्य मे । समोहितं विधेहि स्वमित्युक्ता सा तथाऽकरोत् ॥ ३४ ॥ चखाद मांसखण्डानि कतित्वा सा दुराशया। स्कन्धदेशे कुमारस्य खण्डमेकमथाऽपतत् ॥ ३५ ॥ किमेतदिति सञ्चिन्त्य यावदूर्ध्वमलोकयत् । तावत्तवेष्टितं तस्याः स ददर्श चुकोप च । ३६ ।।