________________
२८६
श्रीशान्तिनाथचरित्रे
इदानीं किं बहक्तेनाध्यारुह्य करिणोमिमाम् । आगच्छतं ममावासे युवां पुत्रसमन्विते ॥ ६ ॥ अथासौ भणितस्ताभ्यां श्रेष्ठी यत्किञ्चिदप्रियम् । आवाभ्यां त्वदुग्गृहस्थाभ्यां कृतं तत् क्षम्यतामिति ॥ ७ ॥ युवां वणिक्स्वभावेन यद्गृहे कर्म गर्हितम् । कारिते मर्षितव्यं तदित्यूचे सोऽपि ते प्रति ॥ ८ ॥ अन्योऽन्यं क्षमथित्वेवं वत्सराजसमन्विते ।
जग्मतुस्ते नृपावासे भगिन्या उपरोधतः ॥ ८ ॥ प्रासादमर्पयित्वैकं सामग्रीसंयुतं तयोः ।
ऊचे राजा कुमारं तं वत्स ! किं ते ददाम्यहम् ? ॥१०॥ सोऽवदत्रापरं याचे सेवां कर्तास्मि ते सदा ।
दिनावसाने गेहे तु प्रेषितव्यः स्वयं त्वया ॥ ११ ॥ प्रतिपन्नमिदं राज्ञा सेवां तस्य चकार सः । चक्रे च तद्गृहं सुस्थं 'राजा धान्यादिवस्तुभिः ॥ १२ ॥ अन्यदा मेदिनीपालः कथमप्यविसृज्य तम् । सुप्तो वासगृहे तच्च यामिकैः परिवेष्टितम् ॥ १३ ॥ वत्सराजकुमारोऽपि खङ्गव्यग्र करो बहिः । तस्थौ वासगृहस्याऽस्य विनीतो वरभृत्यवत् ॥ १४ ॥ निशोथसमये जाते शुश्राव करुणस्वरम् । कस्याश्चिदतिदुःखिन्याः कामिन्या रुदितं नृपः ॥ १५ ॥
( १ ) च ञ रराज्ञा ।
(२) ख च ज निशीथे गतनिद्रोऽथ ।