Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 18
________________ २०६ श्रीशान्तिनाथचरित्रे उज्झिकातुल्य आख्यातः शिष्यः त्यक्तव्रतो हि यः । इह लोके परलोके स भवेद् दुःखभाजनम् ॥ ८५ ॥ लिङ्गमात्रोपजीवी यः स द्वितीयस्नुषासमः । व्रतपालनसंप्रीतो भाण्डागारवधूपमः ॥ ८६ ॥ धर्मदेशनयाऽन्येषामप्यारोप्य व्रतानि यः । सूरिस्तहडिकारी स्यात् स रोहिण्या समो मतः ॥ ८७ ॥ श्रीवीर जिनका लेदो भविष्यति कथानकम् । ततो व्रतानि पञ्चात्त्राऽधुना चत्वारि तानि तु ॥ ६८ ॥ एवं शिक्षाकथां श्रुत्वा जितशत्रुर्महीपतिः । प्रव्रज्यां पालयामास श्रीदत्तगुरुसन्निधौ ॥ ८६ ॥ तद् भो भव्याः ! अहिंसाऽऽदिलक्षणं धर्ममुत्तमम् । परोक्ष्य विदधौतेति क्षेमङ्गरजिनोऽब्रवीत् ॥ ४०० ॥ दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततेः । अहिंसा व्रतमुख्या सा स्वर्गमोक्षविधायिनी ॥ १ ॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन् द्वितीयं धर्मलक्षणम् ॥ २ ॥ अदत्तत्यागतो नृणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥ ३ ॥ ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥ ४ ॥ (१) ज महामुनिः ।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108