Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 75
________________ पञ्चम प्रस्तावः । कूपेऽमुष्मिन्मनुष्योऽपि पतितोऽस्ति परं त्वया । • न ह्युत्ता- यतः सोऽयं कृतघ्नः किं करिष्यति ? ॥ ४१ ॥ इत्युदीयं ययुस्तेऽथ चिन्तयामास स हिजः । कथमेष मनुष्योऽपि वराको न हि कृष्यते ? ॥ ४२ ॥ सर्वस्याप्युपकारो हि विधातव्यः स्वशक्तितः । मनुष्यजन्मनः सारमेतदेव निगद्यते ॥ ४३ ॥ कूपे क्षिप्ता ततो रज्जं सोऽम्याकष्टो हिजन्मना । कोऽसि त्वं कुत्र वास्तव्य इति पृष्टो जगाद च ? ॥ ४४ ॥ अहं हि मथुरावामी स्वर्ण कारोऽत्र केनचित् । कारणेनागत: कूपे पतित: वृष्णयाऽदितः ॥ ४५ ॥ कूपान्तरप्ररूढस्य शाखामालम्बा शाखिनः । यावद स्थामहं तावत्ते पेतुर्वानरादयः ॥ ४६ ॥ समान व्यसनत्वाच्च त्य त वैरा: परस्परम् । परोपकाररसिक ! त्वया जीवापिता वरम् ॥ ४७ ॥ मथुरायां समागच्छेरित्युदित्वा ययौ च सः । हिजश्च क्रमयोगेण तत्र प्राप्तो भुवि भ्रमन् ॥ ४८ ॥ ततोऽसौ वानरो दक्षस्त मुहीक्ष्योपलक्ष्य च ।। दृष्टः सम्मानयामास तत्कालं पेशलै: फलैः ॥ ४८ ॥ व्याघ्रोऽपि तस्य सम्मानं विधातुं वाटिकां गतः । जघान चाविवेकित्वात् तत्र राजसुतं बलात् ॥ ५० ॥ तस्याभरण मादाय बहुमूल्यं सुखेन सः । ब्राह्मणाय ददौ तस्मै जीवितव्य प्रदायिने ॥ ५१ ॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108