Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२७२
श्रीशान्तिनाथचरित्रे
आतध्यानेन जीवोऽयं तिर्यग्गतिमवाप्नुयात् । मार्दवार्जवसम्पन्नो गतदोष कषायकः । न्यायवान् गुणगृहाश्च मनुष्यगतिभाग भवेत् ॥ ५५ ॥ पृच्छति स्म पुनर्भूपः कयं व्याघ्रो मनुष्यवाक् ? । निषादसूदनाद येन वारितोऽहं प्रभो ! बलात् ॥ ५६ ॥ जगाद पुनराचार्यो भूपते ! शृणु कारणम् । सौधर्मे देवलोकेऽस्ति शक्रसामानिक: सुरः ॥ ५७ ॥ तस्य प्राण प्रिया देवी श्चात्वा क्वापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अटच्छंस्तत्प्रियं सुरम् ॥ ५८ ॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा ? । तेन सा वानरी तेषां भाविनी देवतोदिता ॥ ५० ॥ व्याघ्ररूपधरो भूत्वा तत्परीक्षार्थमागतः । एको देवस्ततो राजस्तस्य वाग् मानुषी वरा ॥ ६० ॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायाशृगालानुचरेण च ॥ ६१ ॥ प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे। तेषामेव मुनीन्द्राणां पाखें जातो महाव्रती ॥ ६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोचेस्तस्मिन्नेव सुरालये ॥ ६३ ॥
इति निषादवानरी कथा । यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्त्याज्येयं सर्वथा त्वया ॥ ६४ ॥

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108