Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२७४
श्रीशान्तिनाथचरित्रे
एवं गच्छति कालेऽस्याऽन्यदा हादशवार्षिकी । अनावृष्टिरभूत्तेन कूप तत्राम्ब निष्ठितम् ॥ ७५ ॥ तस्मिंश्च निष्ठिते सर्वे जलजीवाः क्षयं गताः । तदाऽऽहारस्य तस्याहेवृत्तिच्छेदोऽभवत्तत: ॥ ७६ ॥ गङ्गादत्तस्तु शालूरः पश्शेषकताशनः । जीवनन्येद्यरित्यूचे सर्पणायं रहःस्थितः ॥ ७७ ॥ भद्राहं क्षुधितोऽत्यन्तं त्वज्जातिकृतभक्षण: । सा त्वनावृष्टिदोषण विगता किं करोम्यहम् ? ॥ ७८ ॥ सोऽथ दध्यावयं क्रूरो निहन्तुं मां समोहते। रक्षामि खं ततोऽमुभात् कृत्वोपायं हि कञ्चन ॥ ७८ ॥ इति ध्यात्वाऽवदत् स्वामिन् ! गत्वा सिन्धुदादिषु । निजजातिं विलोभ्याहमानेष्यामि कृते तव ॥ ८० ॥ धृत्वा चञ्चपुटे चित्रलेखा नेष्यति तत्र माम् । ततस्ते प्रचुरा नित्यं प्राणयात्रा भविष्यति ॥ ८१ ॥ अथानन समादिष्टा तदर्थ पक्षिणी सका। चचा कृत्वा मुमोचैनं नीत्वा क्वापि महादे ॥ ८२ ॥ नीरमध्यप्रविष्टोऽसौ संजातः सुखभाजनम् । तदाशयमजानत्या भणितचित्रलेखया ॥ ८३ ॥ एह्येहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते स्वामी सोऽथ तामित्यभाषत ॥ ८४ ॥
आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ।

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108