Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२८०
श्रीशान्तिनाथचरित्र
इत्यादिरागजननपेशलैर्वचनैस्तयोः । हावभावैश्च विविधैर्न लुब्धं तस्य मानसम् ॥ ४० ॥ अनुकूलोपसगांस्ते विधाय सकलां निशाम् । प्रशान्तविक्रिये प्रातरवं संस्तुवत: स्म तम् ॥ ४१ ॥ सरागं हृदयं चक्ररागणापि त्वयाऽऽवयोः । अहो ! चित्रं न रक्तोऽसि प्रक्षिप्तोऽप्यत्र सुन्दर ! ॥ ४२ ॥ विलीयते नरो लोहमयोऽप्यस्म हिचेष्टया । न स्तोकमपि ते धौर ! चचाल हृदयं तया ॥ ४३ ॥ क्षमयित्वाऽपराधं खं नमस्कृत्याथ तं नृपम् । कुर्वत्यौ तद्गुणश्लाघां जग्मतुस्ते निजाश्रयम् ॥ ४४ ॥ प्रतिमां पारयामास पोषधं च यथाविधि । राजा मेघरथः प्रातर्विदधे पारणं ततः ॥ ४५ ॥ अन्यदाऽऽस्थानमासीन: ससामन्तः स भूपतिः । उद्यानपालकेनैवं भणितो भक्तिपूर्वकम् ॥ ४६ ॥ स्वामिन् ! संवर्ध्यसे दिध्या यदद्य नगरे तव । जनकः समवासार्षीज्जिनो घनरथः प्रभुः ॥ ४७ ॥ ततो दानं हिरण्यादि दत्त्वाऽस्मै पारितोषिकम् । कुमारसंयुतो राजा ययौ नन्तुं जिनेश्वरम् ॥ ४८ ॥ वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानसः ॥ ४८ ॥ अत्रान्तरे जिनः सर्वभाषानुगगिरा वराम् । जन्तूनां प्रतिबोधार्थं विदधे धर्मदेशनाम् ॥ ५० ॥

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108