Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
पञ्चमः प्रस्तावः ।
२८३ अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यो मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥ ७३ ॥ तदस्मिन्नहित स्वस्य नोपेक्षा युज्यते खलु । . कोमलोऽपि रिपुश्छेद्यो व्याधिवट् बुद्धिशालिना ॥ ७४ ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्विन् ! किमत्र क्रियतामिति ? ॥ ७५ ॥ मन्त्राचे वत्सराजोऽयं तिष्ठन्नन न ते हितः । पुरान्निस्यतां देव ! तत्कनिष्ठोऽप्यनिष्ट क्लत् ॥ ७६ ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । गन्तव्यं त्वयकाऽन्यत्र मुक्त्वा मे विषयं पुन: ॥ ७७ ॥ भ्रातुराज्ञां गृहीत्वा तां जनन्याः स न्यवेदयत् । तच्छ्रुत्वा दुःखिता साऽपि बभूवाश्रुमुखी क्षणात् ॥ ७८ ॥ ज्ञात्वा तां दुःखितां वत्सराजोऽवादीत्किमम्बिके ! ? । एवं खेदं करोषि त्वं देह्यादेशं व्रजाम्यहम् ॥ ७ ॥ देवी प्रोषाच हे 'वत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥ ८० ॥ वत्सराजोऽब्रवीन्मात: ! स्थेयमत्रैव हि त्वया। यदन्यदेशो विषमो देवराजोऽपि ते सुतः ॥ ८१ ॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक ! । नार्थो मे देवराजेन यस्तवाप्यपकारक्तत् ॥ ८२ ॥
(१) ठ पुत्र

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108