Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 100
________________ २८४ श्रीशान्तिनाथचरित्र ततश्च देवराजेन राज्ञोहालितवाहना। चचाल धारिणौ पादचारिणौ सह सूनुना ॥ ८३ ॥ स हन्तव्यो मयाऽवश्यं योऽनेन सह यास्यति । इत्यत्वा वारितः सर्वः परिवारस्तु भूभुजा ॥ ८४ ॥ ततश्चोच्छलितो लोकहाकार: सकले पुरे । स कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥ ८५ ॥ जजल्प च जनोऽद्येतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥ ८६ ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराहत्सो विनिर्ययो । ८७ ॥ ततः शनैः शनैर्मात्रा माटष्वस्रा च संयुतः । सोऽवन्तिदेशमध्यस्थामियायोजयिनी पुरीम् ॥ ८८ ॥ जितशत्रुनृपस्तस्यां यथार्थाख्यः पराक्रमी। बभूव कमलश्रीश्च तस्याग्रमहिषी वरा ॥ ८८ ॥ बहिष्णुर्यास्तरुच्छायां विश्रान्ता साऽथ धारिणी। चिन्तयामास हा दैव ! किमरे ! विहितं त्वया ? ॥ ८० ॥ भूत्वाऽपि वीरसेनस्य भूपतेः प्राणवल्लभा। हन्तेदृश्यां दुर्दशायां ससुता पतिता कथम् ? ॥ २१ ॥ अथ तां समनुज्ञाप्य तत्वसा विमलाभिधा । प्रविवेश पुरोमध्ये वासस्थानविधित्सया ॥ २ ॥ सा त्रस्तहरिणीनेत्रा वीक्षमाणा पुरीजनम् । श्रेष्ठिनं सोमदत्ताख्यं ददर्शकत्र मन्दिरे ॥ ८३ ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108