Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 104
________________ २८८ श्रीशान्तिनाथचरित्रे अन्यच्च नावयोगेंहे सन्त्येधांसि च नन्दन ! । पुरवासे यतः प्रायो दुष्पापं स्याज्ज लेन्धनम् ॥ २४ ॥ सोऽब्रवीत् येष्ठिन: पार्खाद्याचित्वा त्वं कुठारिकाम् । कावाकृतिं च हे अम्ब ! समर्पयसि मे यदि ॥ २५ ॥ ततोऽहमिन्धनं सारमानयामि वनान्तरात् । तयाऽथ तत्तथा चक्रे ययौ सोऽप्यटवीं प्रगे ॥ २६ ॥(युग्मम्) पश्यन्नानाद्रुमांस्तत्र स दध्यो यदि कञ्चन । पश्यामि प्रवरं वृक्षं तत् छित्त्वा तस्य दारुभिः ॥ २७ ॥ रूक्षदारिद्रप्रवृक्षस्य च्छेदनं प्रकरोम्यहम् । अम्बायास्तद्भगिन्याय वाञ्छितं पूरयामि च ॥ २८ ॥ तत्रैका देवकुलिका तेनाथ ददृशे वरा। तदन्तर्यक्षराजश्च प्रत्यक्षो भक्तिशालिनाम् ॥ २८ ॥ तत्र दूरे समाघ्राय सुगन्धं स व्यचिन्तयत् । नूनमत्र वने क्वापि विद्यते चन्दनद्रुमः ॥ ३० ॥ सम्यग् निरीक्षमाण न यतोऽसौ सर्पवेष्टितः । दृष्टोऽथ साहसेनैते परिक्षिप्ता महोरगाः ॥ ३१ ॥ पुरा यक्षवनमिति च्छिन्नो द्रुः स न केनचित् । चिच्छेद स तु तस्यैकशाखां साहससंयुतः ॥ ३२ ॥ विधाय काष्ठखण्डानि क्षिप्वा कावाकृती तथा। परितुष्टमना: सोऽथ चचाल स्वगृहं प्रति ॥ ३३ ॥ नगया यावदासन्ने स समेतस्तदाऽन्तरा। जगामास्तं रवि: पुर्य्या दाराणि पिहितानि च ॥ ३४ ॥

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108