Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 95
________________ पञ्चमः प्रस्तावः। २८१ २८१ भो भव्याः ! इह कर्तव्यो जिनार्चननमस्कृतौ । अपूर्वपाठ यवणे चाऽप्रमादो निरन्तरम् ॥ ५१ ॥ पुण्यात्मा यो भवेज्जीवोऽप्रमत्तो धर्मकर्मणि । तस्याऽऽपदपि सोख्याय शूरस्येव प्रजायते ॥ ५२ ॥ प्रस्तावेऽत्र गणधरो जिनं नत्वा व्यजिन्नपत् । प्रभो ! कः शूरनामाऽसौ योऽप्रमत्तो वृषेऽभवत् ? ॥ ५३ ॥ अथावादीज्जिनो भद्र ! यदि ते श्रुतिकोतुकम् । तदस्याख्यानकं सम्यग् कथ्यमानं मया शृणु ॥ ५४ ॥ अस्त्यस्य जम्बूदीपस्य मध्यखण्डे हि भारते । क्षितिप्रतिष्ठितं नाम पुरं पुरगुणाञ्चितम् ॥ ५५ ॥ तं पुरं पालयामास शेषसामन्तवन्दितः । लोकावनैकरसिको वीरसेनाभिधो नृपः ॥ ५६ ॥ तस्यासीद्धारिणी देवी देवीव धरणीगता। ददर्श साऽन्यदा स्वप्ने पुरो यान्तं सुरेश्वरम् ॥ ५७ ॥ पत्युः शशंस सा स्वप्नं सोऽवादीद्भविता सुतः । चलेन्द्रदर्शनात्सोऽपि भावी किञ्चिञ्चलाचलः ॥ ५८ ॥ जज्ञे च समये पुत्रोऽभिधानदिवसेऽस्य च । देवराज इति नाम चक्रे स्वप्नानुसारत: ॥ ५८ ॥ तस्मिन् प्रवर्धमानेऽपि स्वप्ने राज्ञान्यदक्षत । मसोज्ज्वलं पुष्टदेहं निजोत्सङ्गगतं वृषम् ॥ ६० ॥ तस्मिंश्च कथिते राज्ञा भणितं देवि ! ते सुतः । भविष्यति महाबाह राज्यभारधुरन्धरः ॥ ६१ ॥

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108