Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 93
________________ पञ्चमः प्रस्तावः। २७८ २७८ परीषहोपसर्गेभ्योऽभीत: संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ २६ ॥ अष्टाविंशतिलक्षाणां विमानानामधी शिना। अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ ३० ॥ माहात्मानिर्जिताऽशेषत्रैलोक्य ! गतकल्मष ! । भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ ३१ ॥ तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति ततिायाः । स्वामिन् ! कस्य नमस्कारो युभाभिविहितोऽधुना ? ॥३२॥ सोऽवदत् शृणु त्रैलोक्य सुन्दरि ! क्षितिमण्डले । नगयीं पुण्डरीकिण्यां राजा मेघरथाभिधः ॥ ३३ ॥ कताष्टमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥३४॥ (युग्मम् ) एवंविधशुभध्यानाद् धर्मे तल्लीनमानसम् । शताश्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ ३५ ॥ इत्याकये सुरूपातिरूपे तहल्लभ उभे । क्षोभनाथं नृपस्यास्य समीप समुपयतुः ॥ ३६ ॥ उत्कृष्टरूपलावण्यकान्तियुक्ते सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ ३७॥ आवां देवाङ्गने स्वामिंस्त्वयि स्नेहविमोहिते। इहायाते ततो वाञ्छां पूरय त्वं प्रियावयोः ॥ ३८ ॥ विमुच्य त्रिदशाधीशं स्वाधीनं निजकं पतिम् । आवामिहागत लुब्धे त्वद्रूपगुणयौवनैः ॥ ३८ ॥

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108