Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 91
________________ पञ्चम: प्रस्तावः । २७७ प्रथापृच्छन्नपो वैरं कथं देवानयोरभूत् ? । इत्याख्याहि यतोऽस्माकं वर्तते कौतुकं महत् ॥ ७ ॥ श्राख्यच्च त्रिदशोऽत्रैव नगरे समभूत्पुरा । वणिक् सागरदत्तो विजयसेना च तत्प्रिया ॥ ८ ॥ युगलेन समुत्पन्नौ वाणिज्यकलयाऽन्विती। धननन्दननामानावभूतां नन्दनौ तयोः ॥ ८ ॥ पितरं समनुज्ञाप्य सार्थेन सममन्यदा। जग्मतुस्तौ वणिज्यार्थ पुरं नागपुराभिधम् ॥ १० ॥ व्यवहारं प्रकुर्वद्भयां ताभ्यामेकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ ११ ॥ ततस्तौ तस्य लोभनान्योन्य घाताभिलाषिणी । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥ १२ ॥ एकोऽवोचन्मय वेदं चारु रत्नमुपार्जितम् । हितीय: स्माह मयका त्वं लोभं कुरुषे वृथा ॥ १३ ॥ इत्यन्योन्यं रुषाक्रान्ती तो युद्धाऽरुणलोचनौ। पतितो निम्नगानीरे चार्तध्यानेन संस्थितौ ॥ १४ ॥ मंजातो पक्षिणावेतौ वनमध्ये ततोऽधुना। मिलितो कलहायन्ती मया भोः ! समधिष्ठितौ ॥ १५ ॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छुविस्मयापनाः सभ्या मेघरथं नृपम् ॥ १६ ॥ तृनाथ ! त्रिदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये ? ॥ १७ ॥

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108