Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 90
________________ २७६ श्रीशान्तिनाथचरित्रे तुलारूढं नृपं दृष्ट्वा सकलोऽपि परिग्रहः । हाहाकारं प्रकुर्वाण: सविषादमदोऽवदत् ॥ ६ ॥ हा ! नाथ ! जीवितत्यागसाहसं किं करोष्यदः ? । एकस्य पक्षिणोऽस्यार्थे किमस्मांश्चावमन्यसे ? ॥ ८७॥ इदमौत्पातिकं किञ्चित् प्रभो ! सम्भाव्यते यतः । भवेन्नैतादृशो भारः क्षुद्रकायस्य पक्षिण: ॥ ८ ॥ परोपकारकरणरमिक: सरलाशयः । तथोपयोगं भूपोऽसौ न ददौ ज्ञानवानपि ॥ ८ ॥ इदं च चिन्तयामास धन्यास्ते धरिणीतले । निर्वाहयन्ति ये श्रेयः कार्यमङ्गोकतं खलु ॥ ३०० ॥ सर्वोऽपि स्वार्थलुब्धोऽयं चलनेहः परिग्रहः । कृतघ्नमशुचेगेंहं देहं चापि विनश्वरम् ॥ १ ॥ अपेक्षयाऽनयोः सोऽहं स्वार्थभ्रंशं करोमि किम् ? । वसन्धां पूरयिष्यामि यहा तहा भवत्वहो । ॥ २॥ अत्रान्तरे चलत्स्वर्ण कुण्डलालङ्घन्तश्रुतिः । किरीटहारकटकधारी कश्चित् सुरो वरः ॥ ३ ॥ आविर्भूय जगादेवं धन्योऽसि त्वं महीपते ।। तव धौर ! दयावीर ! सफले जन्मजीविते ॥ ४ ॥ येनाद्य त्वगुणग्रामं शशाङ्ककरनिर्मलम् । ईशानेन्द्रः सभामध्ये प्रशशंस सविस्मयः ॥ ५ ॥ अथद्दधानस्तमहं त्वत्परीक्षार्थमागतः । अधिष्ठिती मया तो पूर्वमत्सरिणो खगो ॥ ६ ॥

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108