Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 89
________________ पञ्चमः प्रस्तावः । २७५ बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ ८५ ॥ इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथञ्चन ॥ ८६ ॥ एवं राजन् ! क्षुधातः सन् कृत्याकल्यं न वेद्माहम् । तदाशु प्रोणय त्वं मां यावत् प्राणा न यान्त्यमी ॥ ८७ ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराहारं भद्र ! त्वं क्षुधितो यदि ॥ ८८ ॥ पक्ष्यचे नान्य आहारोऽस्माकमिष्टो विनाऽऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ ८८ ॥ पश्यतो मेऽङ्गिनो मांसं छित्त्वा चेद्दीयते ततः । प्तिर्भवेदिति पुनर्वदति स्म स नोडजः ॥ ८० ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षी तुलाकृतः । लावन्मात्रं निजं मांसं यच्छामि किमु ते वद ? ॥ ८१ ॥ एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः । न्यवेशयञ्च तत्रैकपा पारापतं द्विजम् ॥ ८२ ॥ उत्कृत्योत्कृत्य देहं स्वं तीक्षणक्षुरिकयाऽक्षिपत् । हितीयपावें मांसं च करुणारससागरः ॥ ८३ ॥ छित्त्वा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥ ८४ ॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥ ८५ ॥

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108