Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्रे
यया त्वं पुत्रवत् पाप ! पालितो लालितश्विरम् । तस्याः प्रकुर्वतो घातं किं न ते 'शटितो करौ ? ॥ ३५ ॥ रे पापिष्ठ ! निकष्टाज ! कृतघ्नाभव्य ! दुर्मते ! । प्रयाहि मेऽप्यवध्योऽसि त्वन्मुखं वीक्ष्यते कथम् ? ॥ ३६ ॥ निषादश्चागतो गेहे ज्ञात्वा तहत्तमादितः । राज्ञा चाज्ञापितो वध्यो बवाऽसौ बन्धनैर्दृढम् ॥ ३७ ॥ राजादिष्टैनरैर्यावत् स नीतो वध्यभूमिकाम् । तावद् व्याघ्रोऽवदद्युक्तमहो! नैतस्य मारणम् ॥ ८ ॥ अथ तैर्विस्मयापन्नः कथितं तन्महीभुजे। स्वयं राजाऽपि तत्रागात् कौतुकोत्तानमानसः ॥ ३८ ॥ तथैव व्याजहाराऽसौ मृगराजो महीपते ! । पापिनोऽस्य वधान्मा भूस्त्वमप्यंशहरोंऽहसः ॥ ४० ॥ स्वयमेव पतन्त्येव विपत्तो पापजन्तवः । निमज्जति यथा तूर्णं सम्पूर्ण: कलसोऽम्भसि ॥ ४१ ॥ राजा प्रोवाच हे व्याघ्र ! तिरश्चोऽपि कथं नु ते । प्रकष्टा मानधी भाषा, विवेकित्वं तदृशम् ? ॥ ४२ ॥ व्याघ्रोऽप्येवमभाषिष्ट विशिष्टज्ञानसंयुतः । उद्याने सूरिरत्रास्ति स सर्व कथयिष्यति ॥ ४३ ॥ इत्युदित्वा ययौ सोऽथ तं निषादं महीपतिः । पुर्य्या निष्कासयामास सुरेन्द्र इव सङ्गमम् ॥ ४४ ॥
(१) द बोटितौ।

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108