Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 82
________________ श्रीशान्तिनाथचरित्रे स्मरन्ब्रुपक्कति तां च तं सदा निजपार्श्वगम् । चकार नृपतिश्चैषा प्रकृतिः पौरुषो यतः ॥ १५ ॥ वसन्ते सङ्गतेऽन्येयु: कामिनां चित्तशालिनाम् । ऋतौ पुष्पफलाकोणे कानने 'कमिताक्षते ॥ १६ ॥ अन्दोलजलकेल्यादि प्रक्रीय कदलीरहे। सुष्वाप श्रमनाशाय प्लवगे त्वङ्गरक्षके ॥ १७ ॥ (युग्मम् ) कुधिया कपिना तेन स्वामिभक्तत्वमानिना। भ्रमरव्याजतो राज्ञः कृत्ता खड्न कन्धरा ॥ १८ ॥ यथा तेन क्षितीशेन हितादपि हि वानरात् । प्राप्तं तु मरणं तस्मात्तदियं श्रेयसे न ते ॥ १८ ॥ इत्याकर्ण कथा तेन व्याधनाश हरिप्रिया। पातिताऽस्य मृगारातः पुरः प्रोवाच तामसौ ॥ २० ॥ न धार्य हृदये दुःखं भद्रे ! प्राप्ता त्वया ननु । तादृशो फलसम्प्राप्तिर्यादृश: सेवितो नरः ॥ २१ ॥ प्रत्युत्पन्नमतिः साऽथ व्याघ्र स्माह स्वसंज्ञया । रक्षणीया त्वया नाहं भक्षणीयैव केवलम् ॥ २२ ॥ हितं ते वच्म्यदो बाक्यं वानराणां मृगाधिप ! । प्राणा वसन्ति लाङ्गले ग्राह्यास्तत्रैव तत्वया ॥ २३ ॥ तथैव कृतवान् व्याघ्रः सहसा साऽपि वानरी । वृक्षे त्वरितमारूढा पुच्छं मुक्त्वा मुखेऽस्य तत् ॥ २४ ॥ (१) द कामिवाञ्छिते।

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108