Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
पञ्चमः प्रस्तावः ।
२५८
इहाऽऽसीदमरावत्याः शाखानगरसन्निभा। शाखामृग'शताऽऽकीर्णा हरिकान्ताऽभिधा पुरी ॥ २० ॥ तत्राभूत् पृथिवीपालो हरिपालाभिध: सुधीः । हरीणां पालनत्वेन यदाख्या सत्यतां गता ॥ २१ ॥ तस्यामेव पुरि क्रूरो यमकिङ्करसन्निभः । कृतनो निर्दयश्चाभूद निषादो नाम घातकः ॥ २२ ॥ स पापड़िरत: पापो गत्वा नित्यं वनान्तरे । जघानानकशो जीवान् वराहहरिणादिकान् ॥ २३ ॥ इतस्तस्मिन् पुरासन्ने वनेऽनेकद्रुमाकुले । भूपप्रसादबलिनो वसन्ति स्म बलीमुखाः ॥ २४ ॥ तन्मध्ये वानरी काऽपि कापयविरता सदा । हरिप्रियाऽभिधानाऽभूद् दयादाक्षिण्यशालिनी ॥ २५ ॥ एकदा च निषादोऽयं नृशंसः शस्त्रपाणिकः । - अपश्यत् पुरतो घोरं मृगारिं मृगयापरः ॥ २६ ॥ सप्राणोऽपि ततः प्राणभयभीतो द्रुतं द्रुतम् । नंष्ट्वा क्वापि समासनेऽधिरूढो जगतोरुहे ॥ २७ ॥ समारोहनसौ तत्र पादपे समलोकयत् । विवृतास्यां भयात् तस्य पूर्वारूढां हरिप्रियाम् ॥ २८ ॥ यस्य बाणप्रहारेण मातङ्गोऽपि विपद्यते । सोऽस्या अपि तदा भीतो यद् भयो भयमीक्षते ॥ २८ ॥
(१) ख ध ठ -समाकीर्णा ।

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108