Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 76
________________ श्रीशान्तिनाथचरित्रे कृतप्रणामं दीर्घायुभवेत्याशी गिरा स तम् । । तुष्टस्तुष्टाव किं कोऽपि नोपकारेण तुष्यति ? ॥ ५२ ॥ ततश्च ब्राह्मणो नत्वा मथुरायां जनार्दनम् । पृच्छन् पृच्छन् पुरीमध्ये स्वर्णकारग्रहं ययौ ॥ ५३ ॥ सलोभो लोलुपो दूरादोषट् दृष्ट्याऽवलोक्य तम् । अधोदृष्टिस्तथैवाऽस्थान रचयन् भूषणादिकम् ॥ ५४ ॥ ब्राह्मणः स्माह भोः ! किं नु नाडिन्धम ! न वेत्सि माम् ? । सम्यग् नाहं विजानामीत्युक्ते तेनावदत् पुनः ॥ ५५ ॥ येन त्वमटवीमध्ये पुरा कूपात् समुद्धृतः । सोऽस्मि हिजो महाभागागत: प्राघुणि कस्तव ॥ ५६ ॥ ततोऽसावुपविष्टः सन्नीषन्नम्रो ननाम तम् । ढोकयित्वाऽऽसनं किं ते करोमोति जगाद च ? ॥ ५७ ॥ भूषणं दर्शयित्वाऽथ वित: प्रोवाच मुष्टिकम् । दक्षिणायामिदं लब्ध मया क्वापि कुतोऽपि हि ॥ ५८ ॥ अस्य मूल्यविधौ धीमांस्त्वमेवासि महाशय ! । तगृहीत्वा यथायोग्यं मूल्यं भव्यं प्रयच्छ मे ॥ ५८ ॥ इति तस्यापयित्वा तन्नद्यां स्नातुं ययौ हिजः । शुश्राव स्वर्णकारश्च पटहोबोषणामिमाम् ॥ ६० ॥ हत्वाऽद्य राजतनयं के नाप्यात्तं विभूषणम् । यस्तं वेत्ति स ाख्यातु वध्योऽसौ भूपतेर्यतः ॥ ६१ ॥ इत्याकर्ण्य कलादोऽपि वितर्काऽऽकुलितोऽभवत् । मयैव घटितं ह्येतदिति सम्यग् विवेद च ॥ ६२ ॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108