Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
२४५
पञ्चम: प्रस्तावः ।
२६५ ममास्ति निर्मल ज्ञानं तेन जानामि भूपते !। योऽसो व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥ ८२ ॥ अनेन किल कान्तारी पुरा कूपात् समुद्धृतरः । व्यालवानरशालाः कलादश्च चतुर्थकः ॥ ८३ । सोऽयमत्रागतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकृते राजन् ! हतो व्याघ्रण ते सुतः ॥ ८४ ५ व्याघ्रदत्तं तमादायालङ्कारमृजुधौरयम् । पाखें कृतोपकारस्य कलादस्य समागतः ॥ ८५ ॥ कलादवचसा देव ! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ ८६ ततश्च तहिमोक्षार्थ दृष्टा युष्मत्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ ८७ ॥ अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽय सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ ८८ ॥ तेनाप्यनुमतं सर्वं यदुती मन्त्रवादिना । संजातप्रत्ययो राजा ततश्शाम चयद् विजम् ॥ ८८ ॥ मुक्तं दृष्ट्वा दिजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥८॥ अथ सा राजतनया कौमुदीवोदयं ययो । राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ १ ॥ तस्य हिजन्मनचाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पन्नगेनामुना खलु ॥ २ ॥

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108