Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 71
________________ पञ्चमः प्रस्ताव:। २५७ त्रिरात्रहित्यं तत्र भवेच्चातुर्थिकानि च । डात्रिंशदिति ताभ्यां तद् विदधे भक्तिपूर्वकम् ॥ ८८ तस्य पारणके ताभ्यां मुनिरेको गृहागतः । प्रणम्य प्राशुकैर्भलपानाद्यैः प्रतिलाभित: ॥ 22 ॥ प्रतिपन्नाऽथ कालेन ताभ्यामप्यनगारता । राजगुप्तः स चाचाम्लवर्धमानं तपोऽकरोत् ॥ २००५ आयुःक्षये विपन्नोऽसौ ब्रह्मलोके सुरोऽभवत् । ततश्चयतः सिंहरथाभिधोऽयं समभूत् प्रिये ! ॥ १ ॥ शसिका च तपः कृत्वा कल्पे गत्वा च पञ्चमे । इयं वेगवतीनानी जज्ञेऽस्यैव हि वल्लभा ॥ २ ॥ इति मेघरथप्रोक्तमाकर्ण्य चरितं निजम् । प्रतिबुद्ध: सिंहरथो गतो निजग्गृहं तत: ॥ ३ ॥ निवेश्य तनयं राज्ये प्रियया महितस्तया। श्रीधनरथतीर्थेशपाटान्ते व्रतम ग्रहीत् ॥ ४ ॥ घोरं कृत्वा तपःकर्माऽवाप्य केवल मुत्तमम् । धौतकर्ममल: सिद्धिं ययो सिंहरथो मुनिः ॥ ५ ॥ वनाद् गेहं समायातो राजा मेघरथोऽन्यदा । मुक्ताऽलङ्करणाऽऽरम्भो विदधे पोषधव्रतम् ॥ ६ ॥ मध्ये पोषधशालाया: स्थितो योगाऽऽसने सुधीः । पुरः समस्तभूपानां विदधे धर्मदेशनाम् ॥ ७ ॥ अत्रान्तरे कम्पमानशरीरस्तरलेक्षण: । संवृत्तोऽस्मि महाराज ! तवाहं शरणाऽऽगतः ॥८॥ ३३

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108