Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
श्रीशान्तिनाथचरित्र
विद्युद्रथखेचरेन्द्रपुत्रस्तत्र महाभुजः । अयं सिंहरथो नाम्ना सर्व विद्याधरेश्वरः ॥ ८७ ॥ इयं वेगवतीनाम्नी भार्याऽस्य सहितोऽनया । गतोऽभूद् धातकोखण्डहोपेऽसौ वन्दितुं जिनम् ॥ ८८ ॥ ततो निवर्तमानोऽसौ यावदागादिह प्रिये ! । प्रतिघातो गतेस्तावदस्याभूत् सहसैव हि ॥ ८८ ॥ मां दृष्ट्वाऽचिन्तयदसौ सामान्योऽयं नृपो न हि । यत्प्रभावेण सञ्जाता विमानस्खलना मम ॥ २० ॥ ततोऽनेन प्रहृष्टेन भूतरूपाण्य ने कश: । कत्वा मम पुरश्चक्रे प्रिये ! प्रेक्षण कौतुकम् ॥ ८१ ॥ पप्रच्छवं पुनर्देवी किमनेन पुराभवे ? । सुकृतं विहितं येन जाता नाथर्डिरीदृशी ॥ ४२ ॥ राजोदाच प्रिये ! पूर्व पुरे सङ्घपुराभिधे । राजगुप्ताभिधः कश्चिद् बभूव कुल पुत्रकः ॥ ८३ ॥ शसि का नाम तद्भार्या निर्धनत्वेन पीडितो। तो कृत्वाऽन्यगृहे कर्म प्राणवृत्तिं वितेनतुः ॥ २४ ॥ काष्ठाद्यर्थमथान्येार्गताभ्यां काननान्तरे । दृष्ट्वा भक्तिवशात् ताभ्यां साधुरको नमस्कृतः ॥ ५ ॥ उपदिष्टम्तयोरग्रे तन धर्मो जिनोदितः । विधिनाऽऽराधितश्चिन्तामणिकल्पद्रुमोपमः ॥ ६ ॥ जन्मान्तरोपार्जितानां पापानामन्तकारकम् । अादिष्टं च तपो द्वात्रिंशत्कल्याणाभिधं वरम् ॥ ८ ॥

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108