Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 68
________________ २५४ श्री शान्तिनाथचरित्रे ततस्तौ द्रष्टुमुत्कौ त्वामिहायातौ नभश्वरौ । श्रपश्यतां युध्यमानौ कौतुकात् 'कुर्कुटाविमौ ॥ ६७॥ ताभ्यामधिष्ठितावेतौ विद्यया तस्थतुश्च तौ 1 इहैव गोपयित्वा स्वं स्वविद्यायाः प्रभावतः ॥ ६८ ॥ वाक्यं मेघरथस्येदं श्रुत्वा तौ खेचरावुभौ | रानो घनरथस्यांनी प्रकटीभूय नेमतुः ॥ ६८ ॥ तौ पूर्वभवतातस्य तस्य नत्वा क्रमद्दयम् । क्षणं स्थित्वा निजं स्थानं पुनरेव प्रजग्मतुः ॥ ७० ॥ ततो दीक्षां गृहीत्वा तौ तपस्तष्ठा सुदुश्चरम् । उत्पन्नकेवलज्ञानौ सनातनपदं गतौ ॥ ७१ ॥ अथ तौ कुर्कुटौ सवीं श्रुत्वा पूर्वभवस्थितिम् । महापापविधातारं मनसा खं निनिन्दतुः ॥ ७२ ॥ प्रणम्य चरणद्दन्द्वं राज्ञो घनरथस्य तौ । स्वभाषयोचतुश्चैवमावां किं कुर्वहे 'प्रभो ! ? ॥ ७३ ॥ ततो राज्ञा ससम्यक्त्वो धर्मोऽहिंसाऽऽदिलक्षणः । तयोर्निवेदितस्ताभ्यां भावसारं प्रतीप्सितः ॥ ७४ ॥ 'प्रायं कृत्वा विपन्नौ तौ देवयोनी बभूवतुः । ताम्रचूलस्वर्णचूलौ भूतौ भूताऽटवीं गतौ ॥ ७५ ॥ (१) कुक्कुट कुर्कुटशब्दयोः पर्यायत्वात् केषु पुस्तकेषु कुक्कुटशब्दस्य केषुचन कुर्कुटस्योल्लेखः । ( 2 ) क द विभो ! | (३) ङ श्रायुःतये ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108