Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 66
________________ २५२ श्रीशान्तिनाथचरित्रे मिथः शृङ्गाऽग्रघातेन भिन्नशीर्षौ सविस्मयम् । मृत्वेमौ कुक्कुटौ जातौ रोषारुणविलोचनौ ॥ ४६ ॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानो शशंस च ॥ ४७ ॥ न केवलमिमौ तात ! 'मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥ ४८ ॥ अस्त्यत्र भरतक्षेत्रे वैताव्यवरपर्वते । सुवर्णनाभं नगरमुत्तरश्रेणिभूषणम् ॥ ४८ ॥ तत्राssसीद गरुडवेगा भिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्वरौ ॥ ५० ॥ अन्यदा तौ नमस्कर्तु' प्रतिमाः शाश्वतार्हताम् | जग्मतुमेरुशिखरे जिननात्र पवित्रिते ॥ ५१ ॥ तत्र सागरचन्द्राऽऽख्यं चारणाश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसोनमिमौ मुदा ॥ ५२ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥ ५३ ॥ अस्तीह धातकीखण्डदीपस्यैरवते पुरम् । नाम्ना वज्रपुरं तत्राभयघोषोऽभवद् नृपः ॥ ५४ ॥ सुवर्णतिलका तस्य राज्ञी तत्कुचिसम्भवौ । अभूतां जयविजयाभिधानौ वरनन्दनौ ॥ ५५ ॥ (१) क युद्धते वैरसंयुतौ । खेचरावेष्टितां । ख घ ङ मत्मरावेष्टितौ युतौ । युद्धेते रोषरणौ । ठ पूर्वदुष्कर्मवैरिणौ । मत्मरावेष्टितौ ।

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108