Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 64
________________ २५० थोशान्तिनाथचरित्रे विचिन्त्य हितोयेनोक्तम्-'कलाऽभ्यासः' इति । स च पठितवान् : दण्डनीतिः कथं पूर्व महाखेटे क उच्यते ? । काऽबलानां गतिर्लोकपालः कः पञ्चमो मतः ? ॥ २८ ॥ ज्योष्ठेन तस्योत्तरं दत्तम्-"महीपतिरिति” । ततश्च स पपाठ : किमाशीवचनं राज्ञां का शम्भोः तनुमण्ड नम् ? । कः कर्ता सुखदुःखानां 'पात्रं च सुकृतस्य कः ? ॥ २८ ॥ अन्येष अजानत्म मेघरथेन तस्योत्तरमादायि-'जीवरक्षाविधिरिति । स्वयं च भणितवान् सुखदा का शशाङ्कस्य मध्ये च भुवनस्य कः ? । निषेधवाचकः को वा का संसारविनाशिनी ? ॥ ३०॥ राज्ञोक्तम्-‘भावनेति'। तथैका गणिका तत्रोपविश्य नृपमब्रवीत् । जीयते देव ! नान्येन ककवाकुरयं मम ॥ ३१ ॥ यदि वाऽन्यस्य कस्याऽपि गर्वोऽस्ति चरणायुधात् । स पादमूले भवतामानयत्वात्म कुकुटम् ॥ ३२ ॥ जेष्यते कुक्कुटो मे चेत् ताम्रचूडेन कस्यचित् । तत् तस्मै संप्रदास्यामि द्रव्यलक्षमहं स्फुटम् ॥ ३३ ॥ राज्ञी मनोरमा तस्याः समाकpथ तहचः । दास्या राजाज्ञया तत्रानाययद् निजकुक्कुटम् ॥ ३४ ॥ (१) ठ मल चतुरुतस्य का।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108