Book Title: Shantinath Charita Part 03
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 67
________________ पञ्चमः प्रस्तावः । इतः सुवर्णनगरखामिनः शङ्खभूपतेः । पृथ्वी देवोभवा पृथ्वीसेना नाम्नी सुकन्यका ॥ ५६ ॥ भूपस्याभयघोषस्य समायाता स्वयंवरा | परिणीताऽतिहर्षेण तेनासौ मृगलोचना ॥ ५७ ॥ २५३ अन्यदाऽथ वसन्तर्तों सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राज्ञीशतान्वितः ॥ ५८ ॥ भ्रमन्त्या तत्र तत्पत्ना पृथ्वीसेनाभिधानया । अदर्शि दान्तदमनाभिधानो मुनिपुङ्गवः ॥ ५८ ॥ तत्पार्श्वे धर्ममाकर्ण्य तया च प्रतिबुद्धया । अनुज्ञाप्य महीपालं प्रव्रज्यां प्रत्यपद्यत ॥ ६० ॥ राजाऽप्युद्यानलक्ष्मी तामनुभूय ययौ पुरम् । प्राप्तश्च तद्गृहेऽन्येद्युश्छद्मस्थोऽनन्ततीर्थक्कृत् ॥ ६१ ॥ प्राशुकैरन्नपानैश्च स तेन प्रतिलाभितः । चक्रिरे पञ्च दिव्यानि तद्गृहे च दिवौकसः ॥ ६२ ॥ उत्पन्नकेवलस्यास्य समीपे स महीपतिः 1 तनयाभ्यां समं ताभ्यां प्रव्रज्यां प्रतिपन्नवान् ॥ ६३ ॥ विंशतिस्थानके: तीर्थकरकर्म निबध्य सः । कृत्वा कालं ससुतोऽप्यच्युतकल्पे सुरोऽभवत् ॥ ६४ ॥ ततथुप्रतोऽभयघोषजीवः स्वस्याऽऽयुषः क्षये । राजा घनरथो जज्ञे हेमाङ्गदनृपाऽऽत्मज: ॥ ६५ ॥ जीवौ जयविजययोः सञ्जातो वां दिवथुती । इति तेनानगारेण तयोस्तात ! निवेदितम् ॥ ६६ ॥

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108